संकष्टनाशनं श्री गणपति स्तोत्रं

A beautifully decorated idol of Lord Ganesh, showcasing traditional Hindu art and cultural heritage. Captured in Pune, India.

।। संकष्टनाशनं श्री गणपति स्तोत्रं।।
।।नारद उवाच ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये।।१
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्।।२
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूमर्वणं तथाष्टमम्।।३
नवमं भालचंद्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।।४
द्वादशैतानि नामानि त्रिसंध्यमं य: पठेन्नर:।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।।५
विधार्थी लभते विधां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्।।६
जपेद् गणपति स्तोत्रं षड्भिर्मासै: फलं लभेत्।
संवत्सरेण सिद्धि च लभते मात्र संशय:।।७
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्।
तस्य विधा भवेत्सर्वा गणेशस्य प्रसादत:।।८

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top